मूलम्
चित्तं स्वसंवेदनं स्यात् तदेव जगदित्यपि । ब्रुवाणा ये सौगताः स्युः तेनैते प्रतिबोधिताः ॥
मूलम्
गुणाऋ परीणामिनित्याः कूटस्थाः पुरुषा मताः । प्रतिक्षणपरीणामाः क्षणविध्वंसिनोऽपरे ॥
मूलम्
गुणानां परमं रूपं न दृष्टिपथमृच्छति । यत्तु दृष्टिपथं प्राप्तं तन्मायेत्याह भाष्यकृत् ॥
टीका
पा. भा.[4-13]
मूलम्
संहतास्ते गुणाः पुंसां शेषत्वाद््गुणशब्दिताः । सर्वकार्यप्रधानत्वात्प्रधानमिति चोच्यते ॥
मूलम्
नासतो विद्यते भावो नाभावो विद्यते सतः । अतीताध्वप्रविष्टाः स्युः भावाः नात्यन्तिकक्षयाः ॥
मूलम्
चित्तं वा चित्ततन्त्रं वा न वस्त्वित्यनुशिष्यते । विज्ञानप्तिभासादिवादास्तेन पराहताः ॥
मूलम्
वस्तुसाम्ये चित्तभेदाद्विक्षेपे नाश आपतेत् । प्रत्यभिज्ञादिकं तावत्पुंभेदेऽपि प्रदृश्यते ॥
मूलम्
पुमैक्ये किमु वक्तव्यं तस्माद्वस्त्वस्ति तत् स्थिरम् । चित्तचैत्तोभयं नावधार्येत क्षणिकं यदि ॥ हेतुहेतुमतोरेककाल-त्वानुपपत्तितः ॥
मूलम्
प्रतिसन्धीयतेऽद्राक्षमहं घटमितीत्यपि । ज्ञाताज्ञातं वस्तु चित्तस्योपरागप्रतीक्षणात् ॥