94 प्रवृत्तिसाफल्यम्

मूलम्

यद्यप्येते तु सहजे शक्ती यत्नो विमुक्तये । शास्त्रोपदेशवैयर्थ्याभावश्चाप्यवधार्यताम् ॥

मूलम्

पुंप्रकृत्योरनादिर्यः भोक्तृभोग्यत्वलक्षणः । बन्धः तस्मिन् सति व्यक्तचेतना प्रकृतिः पुनः ॥

मूलम्

कर्तृत्वस्याभिमानेन दुःखस्यानुभवेन च । कथमात्यन्तिकी दुःखनिवृत्तिस्यान्ममेत्यपि ॥

मूलम्

अध्यवस्यति शास्त्रं चापेक्षते मुक्तिहेतवे । कर्मानुरूपं तद्बुद्धिसत्त्वं शास्त्रस्य गोचरः ॥

मूलम्

शास्त्राधिकारी योऽविद्यास्वभावो दर्शनान्तरे । परमार्थस्वभावोऽसाविति निर्धार्यतेऽत्र तु ॥