93 द्विविधाऽचिच्छक्तिः

मूलम्

तथैव प्रकृतेश्चापि द्वे शक्ती सहजे स्थिते । अनुलोमप्रतीलोमपरिणामविभेदतः ॥

मूलम्

अनुलोमः परीणामो भूतान्तो यो बहिर्मुखः । स्वकारणानुप्रवेशः प्रतिलोमोऽस्मितावधिः ॥

मूलम्

ते एव पुरुषार्थस्य कर्तव्यत्वमितीर्यते । तादृक्षशक्तिद्वितयक्षय एव कृतार्थता ॥