मूलम्
नित्योदिता च व्यङ्ग्या च चिच्छक्तिः द्विविधा मता । आद्या कूटस्थचिच्छक्तिः पुरुषस्स प्रकीर्तितः ॥
टीका
राजमा.[4-23]
मूलम्
तत्सन्निधानाच्चित्तस्य या पुनः व्यज्यतेऽपरा । तदभिव्यक्तचैतन्यं चित्तं व्यङ्ग्येति कीर्त्यते ॥
मूलम्
चिच्छायया चेतनायमानं चापि भवत्यदः । प्रतिबिम्बाभिधा सैव पूर्वा बिम्बाभिधा मता ॥
मूलम्
सांनिध्यात् व्यञ्जनं यच्च तदेव प्रतिबिम्बनम् । तच्चित्तं वेद्यतां याति स्वाकारस्य समर्पणात् ॥
मूलम्
स्वकर्माऩुगुणं भोक्ताधिष्ठितः परमात्मना । इति साङ्ख्यैः स कथितः ये शान्तब्रह्मवादिनऋ ॥
मूलम्
तस्य यस्सुखदुःखादिभोगः कर्मनिबन्धनः । स एव पौरुषो भोगः विवेकाग्रहमूलकः ॥
मूलम्
अभिप्रायेण तेनैव कथितं विन्ध्यवासिना । या सत्त्वतप्यता सैव पुरुषे तप्यतेति च ॥
मूलम्
चित्तमेव द्रष्टृदृश्योपरक्तं त्वंशभेदतः । सर्वार्थमित्युच्यते यच्चेतनाचेतनात्मकम् ॥
मूलम्
न तत्स्वभासं दृश्यत्वात् साक्षिवेद्यमतस्स्थितम् । नार्थः प्रतीतो भवति तत्प्रतीतेरवेदने ॥
मूलम्
बुद्धिवृत्तिश्चिदाकारा चिच्छायाप्रितसंक्रमात् । सा चितिः वृत्त्यवच्छिन्ना चिद्वेद्येत्यभिधीयते ॥
मूलम्
नातश्चित्तं स्वप्रकाशं न चित्तान्तरगोचरः । किन्तु वेद्यं साक्षिणेति व्यवहारव्यवस्थितिः ॥
मूलम्
एवं सवृत्तिकं चित्तं साक्षिवेद्यं सदा मतम् । यतस्साक्षी स कूटस्थोऽन्यथाऽलं चित्तवस्तुना ॥