90 तौष्टिकाः

मूलम्

तद्भवप्रत्ययोपायप्रत्ययाभ्यां द्विधं मतम् ॥

मूलम्

एते भवप्रत्ययाः स्युः ये भवन्ति पुनर्भुवि । योगिनस्ते बहुविधाः पुराणेषु प्रपञ्चिताः ॥

मूलम्

दश मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः । भौतिकास्तु शतं पूर्णं सहस्रं त्वाभिमानिकाः ॥

मूलम्

बौद्धा दशसहस्राणि तिष्ठन्ति विगतज्वराः । पूर्णं शतसहस्रं तु तिष्ठन्त्यव्यक्तचिन्तकाः ॥

मूलम्

पुरुषं निर्गुणं प्राप्य कालसङ्ख्या न विद्यते । एते हि तौष्टिकाः प्रोक्ताः विवेकख्यातिवर्जिकाः ॥

मूलम्

तेषां चित्तं लीनमपि चोत्तिष्ठेत्सुप्तचित्तवत् । उपायप्रत्ययानां तु चित्तं नावर्तते पुनः ॥

मूलम्

विवेकिनस्सर्वमिदं हेयं दुःखमनागतम् । हेयहेतुस्तु संयोगोऽविद्यया द्रष्टृदृश्ययोः ॥

मूलम्

हानं दृशेस्तु कैवल्यं संयोगाभावलक्षणम् । हानोपायोऽविप्लवा स्यात् विवेकख्यातिलक्षणा ॥

मूलम्

प्रतिप्रसवहेयास्स्युः सूक्षमाः संस्कारलक्षणाः । स्थूलास्तु ध्यानहेयाः स्युः क्लेशलक्षणवृत्तयः ॥

मूलम्

स प्रतिप्रसवः ख्यातः तस्यैव ध्वंसलक्षणः । तथा च धर्मिनाशेन धर्मनाश इति स्थितम् ॥