89 समापत्तिः

मूलम्

योगो द्विधस्स्यात्सम्प्रज्ञातासम्प्रज्ञातभेदतः । ध्येयमात्रस्फूर्तिराद्यः तच्छून्योऽनन्तरो मतः ॥

मूलम्

सालम्बनस्स्यात्प्रथमः निरालम्बन उत्तरः । सबीजः प्रथमः प्रोक्तः निर्बीजस्स्यादनन्तरः ॥

मूलम्

मृदुर्मध्योऽधिमात्रश्च स्यादुपायस्त्रिधा मतः । मृदुर्मध्यश्च तीव्रश्च संवोगोऽपि त्रिधा स्थितः ॥

मूलम्

तत्र प्रत्येकयोगेन योगिनो नवधा मताः । तत्रोत्तरेषु चासन्ना सिद्धिः भक्ते ततोऽपि च ॥

मूलम्

सम्प्रज्ञातसमाधिस्तु समापत्तिरितीर्यते । तत्र ग्राह्यसमापत्तिः स्थूलसूक्षमविभेदतः ॥

मूलम्

सवितर्का निर्वतर्का सविचारा तथेतरा । चतुर्विधैवं तद्भिन्ना या तु ग्रहणगोचरा ॥

मूलम्

समापत्तिश्च सानन्दा निरानन्देति भिद्यते । स्याद्ग्रहीतृसमापत्तिः सास्मिता च निरस्मिता ॥

मूलम्

इति द्विधा तथा चाष्टौ समापत्तय ईरिताः । सर्वस्फूर्तिनिरोधे तु द्वितीयो योग उच्यते ॥

मूलम्

संस्कारमात्रशेषं तु चित्तमत्रावतिष्ठते ।