मूलम्
निरोधश्च समाधिश्च तथैवैकाग्रतेति च । स्थूलमध्यमसूक्ष्माख्याः परिणामास्स्युरान्तराः ॥
मूलम्
ते धर्मलक्षणावस्थाभेदात् बाह्याः प्रकीर्तिताः । देशकालदशाभेदात् त्रैविध्यमभिसंहितम् ॥
मूलम्
चितिशक्ते ऋते सर्वे प्रतिक्षणविकारिणः । प्रतिक्षणपरीणामोऽवस्था सूक्ष्म उदाहृतः ॥
मूलम्
मध्यमो भूतभाव्यादिव्यवहारस्य गोचरः । घटादिपरिणामो यः स स्थूल इति निर्णयः ॥
मूलम्
भेदाभेदोऽत्राभिमतः तादात्म्यं धर्मधर्मिणोः । भावाभावविरोधस्तु स्यात्प्रतीतिपराहतः ॥