85 चित्तभूमिः

मूलम्

क्षिप्तं मूढं च विक्षिप्तमेकाग्रं पञ्चमं पुनः । निरुद्धमिति चित्तस्य भूमयः पञ्च कीर्तिताः ॥

मूलम्

चित्तं चतुर्विधं तत्र व्युत्थानं प्रथमं मतम् । समाध्यारम्भसंज्ञं तु द्वितीयं परिकीर्तितम् ॥

मूलम्

एकाग्रता निरोधश्च तृतीयं च तुरीयकम् । तत्र पूर्वस्य संस्कारश्चोत्तरेण निहन्यते ॥

मूलम्

स्वयं निरोधसंस्कारः नश्येत्सीससुवर्णवत् । स्वभावतस्तत्त्वपक्षपातस्सर्वत्र दृश्यते ॥