मूलम्
अधिकारस्स चित्तस्य स्थितिहेतुरुदीरितः । यः कृत्यशेषः तच्छून्यं चित्तं मूले विलीयते ॥
मूलम्
तस्य चित्तस्य विनयात्स्वस्वरूपे प्रतिष्ठितः । पुरुषः केवलो गौणी सा प्रतिप्रसवात्मिका ॥
मूलम्
संयोगाभाव एवासौ दृशेः कैवल्यमुच्यते । कृतकृत्यं ख्यातिपर्यवसानं चित्तचेष्टितम् ॥
मूलम्
यश्च नैरात्म्यसिद्धान्तो निर्वाणद्वारमुच्यते । तदेतच्चित्तविषयमिति सम्यग्विशोधितम् ॥