मूलम्
स एव भक्तियोगस्स्यात् ज्ञीवयोगोऽधुनोच्यते । चित्तवृत्तिनिरोधोऽसौ स्वसाक्षात्कारकारणम् ॥
मूलम्
आगमेनानुमानेन ध्यानाभ्यासवशेन च । त्रिधा प्रकल्पयन् प्रज्ञां लभते योगमुत्तमम् ॥
मूलम्
ध्यानाभ्यासरसश्चैषः धर्ममेघ इतीर्यते । परं प्रसङ्ख्यानमेतत्पुंमात्रध्यानलक्षणम् ।.
टीका
राजमा.[4-29]
मूलम्
ध्यानप्रकर्षपर्यन्तजा चिच्छायावती तु या । अविप्लवा विवेकोपलब्धिः मोक्षस्य कारणम् ॥
मूलम्
सा शुक्लकृष्णमुत्पाद्य धर्मं बन्धं विमोचयेत् । प्रकृष्टधर्मजो मोक्ष इति स्वायम्भुवं मतम् ॥
मूलम्
अत्र कैश्चिद्धर्ममेघस्समाधिः पक्व उच्यते । तेन ज्ञानैकसाध्योऽसौ मोक्ष इत्येव तन्मतम् ॥
मूलम्
अयं तु परमो धर्मो यदेयोगेनात्मदर्शनम् । इति स्मृतिवचस्तत्र प्रमाणं च प्रदर्श्यते ॥
मूलम्
प्रज्ञाप्रासादमारुह्य ह्यशोच्यश्शोचतो जनान् । भूमिष्ठानिव शैलस्थस्सर्वान् प्राज्ञोऽनुपश्यति ॥
टीका
पा. भा.[1-48]