मूलम्
सर्वज्ञलिङ्गं निरतिशयमीशनलक्षणम् । प्रणिधानं नाम भक्तिः तदुपासनलक्षणम् ॥
मूलम्
इच्छामात्रेण सकलजगदुद्धरणक्षमः । यतस्तदेकाश्रयणं वरणं शरणस्य तत् ॥
मूलम्
यद्यस्येष्टं तत्तु तस्य प्रयोजनमिति स्थितम् । सर्वभूतानुग्रहोऽस्य जगत्कर्तुः प्रयोजनम् ॥
मूलम्
स कालेनानवच्छेदात्पूर्वेषां गुरुरुच्यते । प्रणवो वाचकस्तस्य तन्मूलं तदुपासनम् ॥
मूलम्
स्वाध्यायाद्योगमासीत योगात्स्वाध्यायमाचरेत् । स्वाध्याययोगसम्पत्त्या परमात्मा प्रसीदति ॥
मूलम्
अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् । लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥
मूलम्
सादृश्यादीश्वरध्यानं तदनुग्रहमूलतः । स्वात्मसाक्षात्कारहेतुरिति तद्यौगदर्शनम् ॥
मूलम्
उपायस्सुकरस्सोऽयं शीघ्रं चापि फलप्रदः । केषाञ्चित् क्षीणदोषाणां विश्वासोऽत्र महात्मनाम् ॥