मूलम्
सर्वान् जन्तूनुद्दिधीर्षुः दुःखसंसारसागरात् । उपादत्ते सत्त्वचित्तं परः कारुणिकः पुमान् ॥
टीका
पा. भा.[1-24]
मूलम्
अनुग्रहोपदेशादेर्विना तेन न सम्भवः । सर्गप्रलयसन्तानः बीजाङ्कुरवदिष्यते ॥
मूलम्
ज्ञानक्रियाशक्तियुक्तं चित्तं सर्वातिशाय्यदः । अनादिसिद्धं तस्यास्ति शुद्धसत्त्वं प्रधानजम् ॥
मूलम्
पूर्वपूर्वोपात्तचित्तं तादृक्सङ्कल्पवासितम् । उत्तरोत्तरचित्तानामुपादने निबन्धनम् ॥
मूलम्
सात्त्विकाः परिणामाश्च तस्य भोग्यतया स्थिताः । न चेश्वराणां नानात्वं भिन्नाभिप्रायभङ्गतः ॥
मूलम्
ज्ञानैश्वर्ये शुद्धसत्त्वे स्यातमस्य सनातने । पुंप्रकृत्योश्च संयोगवियोगौ तन्निबन्धनौ ॥