79 योगशास्त्रम्

मूलम्

हिरण्यगर्भोपज्ञं यद्योगशास्त्रं प्रकीर्तितम् । तदीयसंहितासारं सञ्जग्राह पतञ्जलिः ॥

मूलम्

न परीक्षाशास्त्रमेतत् किन्तु स्यादनुशासनम् । स्वार्थोपदेशेन परनिरासोऽप्यभिसंहितः ॥

मूलम्

तत्त्वज्ञानं साङ्ख्यशास्त्रे योगेऽनुष्ठानमुच्यते । ज्ञानानुष्ठानसंयोगात् अपृथक्स्थितिरेतयोः ॥

मूलम्

ज्ञानयोगो भक्तियोगः प्रथमे पाद ईरितः । कर्मयोगस्तदुभयहेतुस्साधनपादगः ॥

मूलम्

विभूतिपादेऽभ्युदयः निश्श्रेयसमथान्तिमे । प्रतिपादं प्रधानार्था इति शास्त्रार्थसङ्ग्रहः ॥

मूलम्

ज्ञानयोगस्स्वात्मचिन्ता भक्तिरीश्वरचिन्तनम् । कर्मयोगः कर्मनिष्ठा फलसङ्गविवर्जिता ॥

मूलम्

हेयं च हेयहेतुश्च मोक्षस्तद्धेतुरित्यपि । शास्त्रं व्युत्पादयत्येतदिदमर्थचतुष्टयम् ॥