77 विवेकः

मूलम्

आत्मा ज्ञातव्य इत्युक्त्या विवेक्तव्यः प्रधानतः । इत्यप्युक्त्या च युक्त्या च ज्ञानान्मोक्षं विदुस्त्विमे ॥

मूलम्

आत्मानुमेयसिद्धान्तः साङ्ख्यानामिति निर्णयः । आत्मप्रत्यक्षसिद्धान्तः प्रायेणेतरसम्मतः ॥

मूलम्

वैराग्यं विषयत्यागादित्यौपनिषदं मतम् । भोगाद्विषयवैराग्यमिति कापिलदर्शनम् ॥

मूलम्

नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि । सर्वकर्मक्षयादेव मोक्षस्स्याद्भोगवादिनाम् ॥

मूलम्

इत्यतश्चैकभविकपक्षः पातञ्जलानुगैः । स्वीकृतस्तस्य वैशद्यं मोक्षवादे भविष्यति ॥

टीका

पा. भा.[2-13]

मूलम्

अतो विवेकख्यात्याख्यतत्त्वसाक्षात्कृतेः पुनः । अप्रारब्धविपाकानां बीजभावविदाहतः ॥

मूलम्

कर्माशयानां प्रारब्धविपाकानां तु भोगतः । अवश्यंभावि चानाशि कैवल्यमिति निर्णयः ॥

मूलम्

तत्त्वसाक्षात्कृतिः प्रायः मोक्षसाधनमुच्यते । अविद्या भ्रान्तिरूपा हि साक्षात्कृत्या निवर्तते ॥