76 गुणाः

मूलम्

सत्त्वं रजस्तम इति गुणाः प्रकृतिलक्षणाः । सुखं दुःखं च मोहश्च तदेषामुपलक्षणम् ॥

मूलम्

प्रकाशश्च प्रवृत्तिश्च नियमश्च प्रयोजनम् । अन्योन्याभिभवे शान्ता घोरा मूढा च वृत्तयः ॥

मूलम्

साम्येनावस्थितौ तुल्यपरिणामपरम्परा । अविनाभाववृत्तित्वमित्याद्या इह वृत्तयः ॥