75 करणवृत्तिः

मूलम्

चक्षुराद्यं दशविधं बाह्यमाभ्यन्तरं पुनः ॥

मूलम्

मनोऽहंकारबुद्ध्याख्यं त्रिविधं तत्प्रकीर्तितम् । आलोचना बाह्यवृत्तिः सङ्कल्पो मनसो मतः ॥

मूलम्

अभिमानोऽहंकृतेः स्याद्बुद्धिरध्यवसायभूः । अन्तःकरणसामान्यवृत्तिः प्राणा इतीर्यते ॥

मूलम्

शारीरके प्राणचिन्ता चैतत्सिद्धान्तदूषणी । अस्ति ह्यालोचनं ज्ञानं प्रथमं निर्विकल्पकम् ॥

टीका

त. कौ.[27 का.]

मूलम्

बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् । संमुग्धं वस्तुमात्रं तु प्राग्गृह्णन्त्यविकल्पितम् ॥

मूलम्

तत्सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः । इति प्राहुस्सांख्यवृद्धाः प्रायस्सौगतसोदराः ॥