मूलम्
विषयेणोपरागोऽयं सम्बन्धो ज्ञानलक्षणः । पुरुषेणोपरागो यः स भेदाग्रहलक्षणः ॥
मूलम्
व्यापारेणोपरागोऽयं वृत्तिः कर्तव्यमित्यसौ । तस्मान्ममेदं कर्तव्यमिति बुद्धेर्निरूपणा ॥
मूलम्
अविभागोऽपि बुद्ध्यात्मा भ्रान्तैरेवं निरीक्ष्यते । ग्राह्यग्राहकसंवित्तिभेदवानिति सौगताः ॥
मूलम्
सविभागोऽपि बुद्ध्यात्मा भ्रान्तैरित्थं विलोक्यते । उपरागैस्त्रिभिरविभक्तात्मेवेति कापिलाः ॥
मूलम्
बाह्यमाभ्यन्तरं चेति करणं द्विविधं मतम् ।