73 बुद्ध्यादयः

मूलम्

अन्योन्यानुग्रहस्सोऽयमविवेकनिबन्धनः । बुद्धिर्महत्तत्त्वमेतदन्तःकरणमुच्यते ॥

मूलम्

प्रत्यभिज्ञाऽनुसन्धानकार्यनिर्वहणक्षमा । विषयाकारिणी बुद्धिवृत्तिः ज्ञानमितीर्यते ॥

मूलम्

बुद्धेस्सत्त्वसमुद्रेकोऽध्यवसायोऽपि स स्मृतः । उपलब्धिः पुनः पुंसो वृत्तिमद्बुद्धिदर्शनम् ॥

मूलम्

तस्मात् ज्ञानं चोपलब्धिः बुद्धिश्चार्थान्तरं मतम् । ततश्च बुद्धिः त्रिविधै रञ्जकैरुपरज्यते ॥