72 प्रत्ययादिसर्गः

मूलम्

भावैर्विना न लिङ्गं स्यात् न भावा लिङ्गमन्तरा । अतोऽस्ति द्विविधस्सर्गः एष प्रत्ययलक्षणः ॥

मूलम्

तृतीयो भौतिकस्सर्गः स्थूलो देवादिभेदतः । लिङ्गेषु बुद्धिर्मुख्येति सैव व्यवहृतेः पदम् ॥

मूलम्

साऽचेतना चितिच्छायापत्त्या चेतनवद्भवेत् । चेतनोऽपि ज्ञानसुखदुःखवानिव लक्ष्यते ॥