मूलम्
शरीरं द्विविधं लिङ्गं मातापितृजमित्यपि । सूक्ष्ममाकल्पनियतं स्थूलं तूत्पत्तिनाशवत् ॥
मूलम्
सूक्ष्मं महदहङ्कारेन्द्रियतन्मात्रसञ्चयः । सर्गादिजं तत्प्रत्यात्ममैकैकं भावरूषितम् ॥
मूलम्
धर्माधर्मादयो भावाः तैर्लिङ्गमधिवासितम् । परिगृह्य स्थूलदेहं नटवद्व्यवतिष्ठते ॥