मूलम्
आश्रयाश्रयिभावेन व्यवहारो विवक्षया । यथेह कानने सन्ति तिलका इति लौकिकः ॥
मूलम्
तदभेदैकान्तवादः सांख्यानामिति निर्णयः । पातञ्जलाः पुनर्भेदाभेदवादावलम्बिनः ॥
टीका
त. कौ.[9 का.]
मूलम्
भिन्नाभिन्नत्वमेकस्य कुतोऽत्र परिकल्पितम् । द्वयं साङ्ख्यमतेनैव मुक्त्वा बुद्धस्य शासनम् ॥
टीका
श्लोक.[302]
मूलम्
इति वार्तिककारोक्त्या भेदाभेदविदोऽपि च । साङ्ख्यास्सन्तीति विदुषामेवमभ्यूहितुं क्षमम् ॥
मूलम्
तस्माद्गुणः क्रिया जातिर्न द्रव्यादतिरिच्यते ।