67 तत्त्वपङ्क्तिः

मूलम्

स्वभावेनैव चिच्छक्तिर्विषयप्रवणा यदि । अनिर्मोक्षप्रसङ्गोऽतः किञ्चिद् द्वारमपेक्षते ॥

मूलम्

न चक्षुरादिमात्रं तत् सङ्कल्पानुपपत्तितः । न मनोमात्रविश्रान्तिः स्वप्ने व्याघ्राभिमानतः ॥

मूलम्

नाहङ्कारे तत्त्वपूर्तिः सुषुप्तौ प्राणदर्शनात् । न बुद्ध्यन्ता तत्त्वपङ्क्तिः बुद्धेः परिमितत्वतः ॥