मूलम्
षष्टितन्त्राभिधः कश्चिदागमः कपिलर्षिणा । प्रणीत इति वेदान्तसूत्रे भास्करभाषितम् ॥
टीका
भा. भा.[87]
मूलम्
सम्प्रतीश्वरकृष्णीयकारिका तत्त्वकौमुदी । साङ्ख्यसिद्धान्तमुकुर इति सर्वत्र निश्चितम् ॥
मूलम्
साङ्ख्यप्रवचनं नाम या ष़डध्याय्यपीक्ष्यते । विज्ञानभिक्षुभाष्यं च तत्प्राच्यैर्नाभिवीक्षितम् ॥
मूलम्
पातञ्जलं चतुष्पादं यदेतर्ह्युपलभ्यते । तद्धि साङ्ख्यप्रवचनमिति माधवसङ्ग्रहः ॥
टीका
पा. भा.[4-34]