मूलम्
अथ षष्टिपदार्थ्यास्तु विभागोऽप्यवधार्यताम् । प्रधानास्तित्वमेकत्वं अर्थवत्त्वमथान्यता । पारार्थ्यं च तथाऽनैक्यं वियोगो योग एव च ॥
मूलम्
शेषवृत्तिरकर्तृत्वं मौलिकार्थाः दश स्मृताः । विपर्ययः पञ्चविधः तथोक्ता नव तुष्टयः ॥
मूलम्
करणानामसामर्थ्यम् अष्टाविंशतिधा मतम् । इति षष्टिः पदार्थानां अष्टाभिस्सिद्धिभिस्सह ॥