मूलम्
अथ कापिलसिद्धान्ते प्रमेयपरिकल्पना । प्रायेण विदिताऽप्यत्र मीमांसायै निरूप्यते ॥
मूलम्
चतुर्विधः पदार्थः स्यात्कश्चित्प्रकृतिरेव हि । प्रकृतिर्विकृतिः कश्चित् कश्चिद्विकृतिरेव च ॥
मूलम्
अन्योऽनुभयरूपस्स्यात् षष्टितन्त्रस्य सङ्ग्रहः । पञ्चविंशतितत्त्वानामपि संक्षेपलक्षणः ॥
मूलम्
आद्य एको विभुर्नित्यः प्रधानं गुणसाम्यतः । प्रतिक्षणसजातीयपरिणाम्यपि शाश्वतः ॥
मूलम्
द्वितीयस्सप्तधा प्रोक्तः महान् तस्मादहंकृतिः । रूपगन्धरसस्पर्शशब्दास्तन्मात्रलक्षणाः ॥
मूलम्
तृतीयष्षोडशविधः व्योमाद्यं भूतपञ्चकम् । एकादशेन्द्रियाणि स्युः ज्ञानकर्मोभयात्मना ॥
मूलम्
यद्यप्यनन्ता भूतानां स्याद्विकारपरम्परा । तत्त्वान्तरोत्पादकत्वं प्रकृतित्वमिहेप्सितम् ॥
मूलम्
तच्च सौक्ष्म्यं हेतुकार्यभावस्येत्यवगम्यते । गुणापचित्युपचितिभेदात्सौक्ष्म्यं तदन्यता ॥
टीका
भा. भा.[116]
मूलम्
चतुर्थः पुरुषोऽनेकः भोक्ता चैतन्यलक्षणः । कूटस्थनित्यो मध्यस्थः द्रष्टा साक्षी च केवलः ॥
मूलम्
तन्मात्रपञ्चकं भूतपञ्चकं ज्ञानपञ्चकम् । कर्मपञ्चकमन्यच्च पञ्चकं शेषपञ्चकम् । एवं च पञ्चकं पञ्च तत्त्वानां पञ्चविंशतिः ॥