मूलम्
अथात्र नव्यसिद्धान्तविशेषांशो विविच्यते । अनुमानागमाभ्यां च सिद्ध्यत्यत्र महेश्वरः ॥
मूलम्
नेश्वरादतिरिच्यन्ते दिक्कालाकाशशब्दिताः । त्रसरेणौ विश्रमेण न ह्रस्वपरिमण्डले ॥
मूलम्
सत्ता नाम न सामान्यं विशेषो नातिरिच्यते । नाना च समवायस्स्यात् प्रागभावो न सम्मतः ॥
मूलम्
शक्तिस्संख्या च कार्यत्वं कारणत्वं तथैव च । स्वत्वं च प्रतियोगित्वं विषयत्वादयोऽपि च ॥
मूलम्
अतिरिच्यन्त इत्याहुः स्पार्शनो वायुरुच्यते । त्रसरेणुर्मनो भूतं मूर्तं भूतमितीर्यते ॥
मूलम्
रूपादयो नानुद्भूताः नापि च व्याप्यवृत्तयः । चित्रं च नातिरिक्तं स्यादित्याद्यन्यत्र विस्तरः ॥