मूलम्
प्रायेण तार्किका एते स्वसिद्धान्तव्यवस्थितिम् । इच्छन्ति तर्कपर्यायभूतलाघवयुक्तिभिः ॥
मूलम्
तत्र लाघवयुक्तीनामुदाहरणसूचनम् । तमश्शक्त्योर्नातिरेकः हेम्नस्तैजसता तथा ॥
मूलम्
कालादेश्चातिरिक्तत्वं जीवे देहातिरिक्तता । विज्ञानादतिरेकश्चेत्यादिरन्यत्र विस्तरः ॥