61 शास्त्रसारः

मूलम्

अत्र तत्त्वावबोधार्थाः पदार्थपरिशुद्धयः । अथाऽत्र प्रथमोऽध्याय़ः पदार्थोद्देशलक्षणः ॥

मूलम्

अथ द्वितीयोऽध्यायस्स्यात्सामान्यद्रव्यलक्षणः । आत्माऽध्यायस्तृतीयस्स्यात् तुर्यस्स्यान्नित्यलक्षणः ॥

मूलम्

कर्माध्यायः पञ्चमस्स्यात् षष्ठस्स्याद्धर्मलक्षणः । अथ स्यात्सप्तमोऽध्यायस्सामान्यगुणलक्षणः ॥

मूलम्

बुद्ध्यध्यायस्त्वष्टमः स्यात्प्रत्यक्षो नवमो मतः । सुखाध्यायस्तु दशमः इत्यध्यायार्थसङ्ग्रहः ॥

मूलम्

या न्यायपरिशुद्धौ श्रीवेदान्ताचार्यसूरिभिः । न्यायवैशेषिकभिदासूक्तिरेषा निशम्यताम् ॥

टीका

न्यायपरि.[16]

मूलम्

पञ्चाध्याय्यामाक्षपाद्यां यत्त्वर्वाग्भिर्निवेश्य च । कुशकाशालम्बनीत्या कणभक्षकथां पुनः ॥

मूलम्

निरुध्यन्ते नैगमिक्यः पदव्यो विबुधोत्तमैः । स्वयमन्तः प्रहसति नूनं तत्र स गौतमः ॥

मूलम्

इत्येवं शास्त्रसारार्थः प्रमेयांशे समुद्धृतः । प्रमाणादिषु वादेषु प्रमेयाब्धिः पुरः स्थितः ॥