मूलम्
एवं सामान्यतः प्रोक्तस्समुद्देशः तथा पुनः । तत्तत्प्रकरणे तत्तद्विशेषः प्रतिपाद्यते ॥
मूलम्
एकं शास्त्रमिति प्रायः बहुभेदं विदुर्बुधाः । सांख्यास्तु निर्विशेषां तां प्रकृतिं कारणं विदुः ॥
मूलम्
भूतानि तु विशेषाः स्युः तस्मादाव्यक्तिकास्तु ते । विशेषेष्वेव विश्रान्ताः ये ते वैशेषिका इति ॥
मूलम्
सामान्यस्य प्रधानस्य प्रतिद्वन्द्वितया स्थिताः । प्राक्पाकजविशेषेण विशिष्टाः परमाणवः ॥
मूलम्
तं तं कार्यं प्रारभन्ते कलमाद्यङ्कुरं स्वयम् । संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥
टीका
न्या. कु.[1 स्त.]
मूलम्
स्वगुणाः परमाणूनां विशेषाः पाकजा मताः । इत्यौदयनभारत्या सविशेषस्य हेतुताम् ॥
मूलम्
वदतां काणभक्षाणां ख्यातिर्वैशेषिका इति । विशेषाख्यपदार्थस्य स्वीकर्तृत्वविशेषतः ॥
मूलम्
वैशेषिका इति ख्यातिः आपातादिति तात्त्विकाः ॥