मूलम्
योगाचारविभूत्या यस्तोषयित्वा महेश्वरम् । चक्रे वैशेषिकं शास्त्रं कणादं तं नमाम्यहम् ॥
टीका
वै. भा.[मङ्गलम्]
मूलम्
काणादन्यायमतयोस्समानार्था इमे स्थिताः । वैशेषिके विशेषोऽपि त्वियानेवावगम्यते ॥
मूलम्
शब्दोपमानयोर्नैव प्रामाण्यमतिरिच्यते । अनुमानगतार्थत्वादिति वैशेषिकं मतम् ॥
मूलम्
पीलुपाकविदस्त्वेते गौतमीयाः पुनर्विदुः । पिठरे पाकमित्येतत् विदितं सर्ववादिनाम् ॥
मूलम्
समवायोऽतीन्द्रियस्स्यादिति वैशेषिकं मतम् । प्रत्यक्षस्समवायीति नैयायिकविनिर्णयः ॥
मूलम्
एते वैशेषिकाः प्रायः जरत्तार्किकलक्षणाः । प्रायो नैयायिका एव नव्यतार्किकशब्दिताः ॥
मूलम्
तेष्वपि प्रायशः प्राच्यनव्यभेदास्त्वनेकधा । भूता अपि भविष्यन्ति सर्वेषां दर्शनेष्विव ॥
टीका
न्या. म.[433]
मूलम्
आत्माऽनुमेयो जरतां नव्यानां मानसो मतः । इत्यौपनिषदैः भेदाः बहवः स्युः प्रदर्शिताः ॥
मूलम्
द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिः तं वै वैशेषिकं विदुः ॥
मूलम्
विनाशकविनाशस्य या बुद्धिः प्रतियोगिनी । साऽपेक्षाधीः तद्विनाशात् द्वित्वादिर्हि विनश्यति ॥
मूलम्
अनुमेयेन सम्बद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥
मूलम्
विपरीतमतो यत्स्याद् एकेन द्वितयेन वा । विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥
मूलम्
विद्याऽविद्याविभागोऽपि विशेषो न्यायनिर्णयात् । उपघातात्मकं दुःखं प्रसादजनकं सुखम् ॥
मूलम्
वीचीसन्तानवच्छब्दसन्तानश्च निरूपितः । सर्वा सर्वगता जातिरिति वैशेषिकं मतम् ॥