मूलम्
अनुभूतिः स्मृतिश्च स्यात् अनुभूतिश्चतुर्विधा ॥
मूलम्
प्रत्यक्षमप्यनुमितिस्तथोपमितिशब्दजे । प्रमाणं करणं तासां तत एव चतुर्विधम् ॥
मूलम्
प्रमा चैवाऽप्रमा चेति साऽनुभूतिश्चतुर्विधा । दोषोऽप्रमाया जनकः प्रमायास्तु गुणो मतः ॥
मूलम्
सा प्रमा तत्प्रकारं यत् ज्ञानं तद्वद्विशेष्यकम् । तच्छून्ये तन्मतिर्या स्यात् अप्रमा सा निरूपिता ॥
मूलम्
ज्ञानं यन्निर्विकल्पाख्यं न प्रमा नापि च भ्रमः । प्रमात्वं न स्वतोग्राह्यं संशयानुपपत्तितः ॥
मूलम्
साक्षात्कारे सुखादीनां करणं मन उच्यते । अयौगपद्यात् ज्ञानानां तस्याणुत्वमिहेष्यते ॥
मूलम्
भावनाख्यस्तु संस्कारः जीववृत्तिरतीन्द्रियः । स्मरणे प्रत्यभिज्ञायामप्यसौ हेतुरुच्यते ॥
मूलम्
शब्दो ध्वनिश्च वर्णश्च मृदङ्गादिभवो ध्वनिः । कण्ठसंयोगादिजन्यः वर्णास्ते कादयो मताः ॥
मूलम्
सर्वश्शब्दो नभोवृत्तिः श्रोत्रोत्पन्नस्तु गृह्यते । तारङ्गाद्वा मौकुलाद्वा न्यायात्तस्य जनिर्मता ॥
मूलम्
तस्मादनित्या एवेति सर्वे शब्दाः व्यवस्थिताः । धर्माधर्मावदृष्टं स्याद्धर्मः स्वर्गादिसाधनम् ॥
मूलम्
अधर्मो नरकादीनां हेतुर्निन्दितकर्मजः । लोकान्तराणि तद्योग्यशरीराणि च सन्ति नः ॥
मूलम्
इमौ तु वासनानाश्यौ ज्ञानादपि विनश्यतः । क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता ॥
मूलम्
यदा चर्मवदाकाशं वेष्टयन्तीह मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥
टीका
स. सं.[9 द.]