मूलम्
द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायस्तथाऽभावः पदार्थास्सप्त कीर्तिताः ॥
टीका
सि. मु.[2 श्लो.]
मूलम्
क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो मनः । द्रव्याण्यथ गुणा रूपं रसो गन्धः ततः परम् ॥
मूलम्
संयोगश्च विभागश्च परत्वं चापरत्वकम् । बुद्धिस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् ॥
मूलम्
द्रवत्त्वं स्नेहसंस्कारावदृष्टं शब्द एव च । उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा ॥
मूलम्
प्रसारणं च गमनं कर्माण्येतानि पञ्च च । भ्रमणं रेचनं स्पन्दनोर्ध्वज्वलनमेव च ॥
मूलम्
तिर्यग्गमनमप्यत्र गमनादेव लभ्यते । सामान्यं द्विविधं प्रोक्तं परं चापरमेव च ॥
मूलम्
द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते । परभिन्ना तु या जातिस्सैवापरतयोच्यते ॥
मूलम्
द्रव्यत्वादिकजातिस्तु परापरतयोच्यते । व्यापकत्वात्पराऽपि स्याद्व्याप्यत्वादपराऽपि च ॥
मूलम्
अन्त्यो नित्यद्रव्यवृत्तिः विशेषः परिकीर्तितः । घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः ॥
मूलम्
तेषु जातेश्च सम्बन्धः समवायः प्रकीर्तितः । अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः ॥
मूलम्
प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च । एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ॥
मूलम्
अन्यथासिद्धिशून्यस्य नियता पूर्ववृत्तिता । कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥
टीका
न्या. म.[560]
मूलम्
समवायि निमित्तं चासमवायीति तत्त्रयम् । निमित्तत्वमधिष्ठानं तद्धीच्छाकृतिलक्षणम् ॥
मूलम्
विवादाध्यासितं सर्वं बुद्धिमत्कर्तृपूर्वकम् । कार्यत्वात् उभयोस्सिद्धं कार्यं कुम्भादिकं यथा ॥
मूलम्
कार्यायोजनधृत्य़ादेः पदात्प्रत्ययतः श्रुतेः । वाक्यात्संख्याविशेषाच्च साध्यो विश्वजिदव्ययः ॥
टीका
न्या. कु.[5 स्त.]
मूलम्
उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधकम् । स सर्वव्यवहारेषु संशयात्मा क्षयं व्रजेत् ॥
टीका
न्या.क.[167]
मूलम्
आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम् । अहङ्कारस्याश्रयोऽयं मनोमात्रस्य गोचरः ॥
मूलम्
विभुः द्रव्यादिगुणवान् बुद्धिस्तु द्विविधा मता ।