56 आन्वीक्षकी

मूलम्

आन्वीक्षकी मानविद्याध्यात्मशात्रमितीर्यते ॥

टीका

न्या. भा.[1-1-1]

मूलम्

प्रदीपस्सर्वविद्यानामालयस्सर्वकर्मणाम् । आश्रयस्सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥

मूलम्

ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा । तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥