मूलम्
उपप्लवो वासना स्यात् वासनामात्रनिर्मिताः । कल्पितालीकभेदादिप्रपञ्चाः पञ्च कल्पनाः ॥
टीका
न्या. म.[94]
मूलम्
द्रव्यक्रियाजातिगुणनामलक्षणका हि ताः । तत्र द्रव्यक्रियाजातिगुणाकाराश्च विश्रुताः ॥
मूलम्
डित्थादिशब्दाकारत्वं वस्तुनः शब्दकल्पना । गौरयं दण्ड्ययं शुक्लोऽप्ययं यात्ययमर्भकः ॥
मूलम्
अयमित्यादि पञ्चानां वस्तूनां स्यादुपप्लवः । परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ ॥
मूलम्
कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः । रागादिवासनामूलं क्षणिकं सकलं ततः ॥
मूलम्
इति सौगतसिद्धान्तं कुतर्क इति ये विदुः । कणादगौतममुखाः तैः पुनः परिशोधिताः ॥
मूलम्
मानमेयादयः सर्वैस्सुगृहीताः परीक्षकैः । तथापि संगतिज्ञानायानूद्यन्ते तदुक्तयः ॥