मूलम्
त्यज्यतां दीर्घसंसारकारणं स्थिरताग्रहः । गृह्यतां क्षणभङ्गित्वं परवैराग्यकारणम् ॥
मूलम्
यत्सत्तत् क्षणिकं सन्तश्चामी भावा इति स्थितम् । सत्ताऽर्थकर्मकारित्वं तत् व्याप्यं व्यापकः पुनः ॥
मूलम्
क्रमाक्रमान्यतरयोर्योगः स स्थिरवस्तुनः । व्यावर्तमानो व्याप्यं च विनिवर्तयतीत्यतः ॥
मूलम्
व्यतिरेकेण सा व्याप्तिः स्यात्तथाऽन्वयतः पुनः । सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता ॥
मूलम्
तयोर्विरोधो युक्त्यापि वक्तुं न हि न शक्यते । एवं द्विधा व्याप्तियोगात् सत्त्वं साध्ये व्यवस्थितम् ॥
मूलम्
किञ्चात्र कारकावस्था स्यादेकक्षणवर्तिनी । सामग्री सा यतः कार्यसर्वदोत्पत्त्यदर्शनम् ॥
मूलम्
व्यापारावेशवशतः साह्यसन्निधितोऽपि वा । कारकत्वं वस्तुरूपं तदेकक्षणवृत्ति हि ॥
मूलम्
कार्योत्पत्त्यैव तत्क्ऌप्तिः तत्पूर्वोत्तरयोरसत् । तदेव परमार्थं सत् अन्यस्याजनकत्वतः ॥
मूलम्
कारकत्वस्य चाभावे ह्यस्तित्वमपि दुर्वचम् । ततश्च सर्वैः प्रायेण क्षणिकत्वमुपाश्रितम् ॥
मूलम्
सौगताः पीतवन्तश्च यश एव हि केवलम् । यत्कारकं यच्च सत्स्यात् तत्सर्वं क्षणिकं ततः ॥
मूलम्
विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः । अनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः ॥
मूलम्
केचित्तु बुद्धोपदिष्टं तत्त्वं नित्यं च किञ्चन । सत्त्वाख्यसाधनं तेन भवेदागमबाधितम् ॥
टीका
न्या. सि.[1 परि.]
मूलम्
ध्रुवभावित्वाख्यहेतुं मन्यन्ते क्षणसिद्धये । तत्प्रकारस्य संक्षेप एषोऽस्ति श्लोकवार्तिके ॥
टीका
श्लोक.[735]
मूलम्
अहेतुको विनाशो हि ध्रुवभावितया स्थितः । जनित्वा ध्वंसते सर्वं स्थूलस्सूक्ष्मो द्विधा च सः ॥
मूलम्
बुद्धिपूर्वं विनाशे हि प्रतिसंख्यानिरोधधीः । अबुद्धिपूर्वकस्तेषां निरोधोऽप्रतिसंख्यया ॥
मूलम्
तौ च द्वावप्यनाशित्वादिष्टौ अकृतकावपि । आहुः स्वभावतस्सिद्धं तं विनाशमहेतुकम् ॥
मूलम्
हेतुर्यस्य विनाशोऽपि तस्य दृष्टोऽङ्कुरादिवत् । विनाशस्य विनाशस्तु नास्ति तस्मादकृत्रिमः ॥
मूलम्
भवति ह्यग्निसम्बन्धात्काष्ठादङ्गारसंततिः । मुद्गरादिहताच्चापि कपालं जायते घटात् ॥
मूलम्
स्वाभाविको विनाशस्तु जातमात्रप्रतिष्ठितः । सूक्ष्मः सदृक्संतानानुवृत्तेरनुपलक्षितः ॥
मूलम्
यदा विलक्षणो हेतुः पतेत्सदृशसंततौ । विलक्षणेन कार्येण स्थूलोऽभिव्यज्यते तदा ॥
मूलम्
तेनासदृशसंतानः हेतोस्सञ्जायते यतः । तेनैवाक्रियमाणोऽपि नाशोऽभिव्यज्यते स्फुटः ॥
मूलम्
इत्येवं वर्तमानत्वप्रत्यक्षात् क्षणभङ्गिता । प्रत्यभिज्ञा चाप्रमाणं विरुद्धांशावगाहनात् ॥