मूलम्
कल्पनापोढमभ्रान्तं प्रमाणं निर्विकल्पकम् । विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः ॥
मूलम्
ग्राह्यं वस्तु प्रमाणं तु ग्रहणं निर्विकल्पकम् । न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥
मूलम्
विकल्पविषये वृत्तिरिष्टा शब्दानुमानयोः । अवस्तुविषयाश्चैते विकल्पा इति निर्णयः ॥
मूलम्
विकल्पोऽध्यवसाय़ः स्यात् ग्रहणं निर्विकल्पकम् । तस्मादध्यवसेयं च ग्राह्यं चेति द्विधं जगत् ॥
मूलम्
शब्दसंसर्गयोग्यार्थप्रतिभासा हि बुद्धयः । सविकल्पा भवन्त्येते व्यपदेशपदास्पदम् ॥
टीका
भा. भा.[123]
मूलम्
विकल्पयोनयश्शब्दाः विकल्पाश्शब्दयोनयः । कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी ॥
टीका
पा. भा.[4-20]
मूलम्
मानमेयफलानामप्यैक्यं विज्ञानवादिनः । अविभागोऽपीति विदुः निरालम्बनसिद्धये ॥
मूलम्
फलक्रियाकारकाणामैक्यं वैभाषिकादयः । क्रियैव कारकम् इति क्षणभङ्गाय चाश्रयन् ॥
मूलम्
प्रत्यक्षवेद्यं यद्वस्तु विशेषः तत्स्वलक्षणम् । परोक्षवेद्यं यच्चापि तत्स्यात्सामान्यलक्षणम् ॥
मूलम्
सजातीयविजातीयव्यावृत्तं स्वत एव यत् । तत्स्वलक्षणमित्युक्तं विशेष इति निर्णयः ॥
मूलम्
यथा च पृथिवी गन्धलक्षणा स्पर्शलक्षणम् । जलमित्यादिकं नैवं किञ्चित्स्यादन्यलक्षणम् ॥
मूलम्
धर्मधर्मिविभङ्गेन जात्यादेरपि भङ्गतः । नैव किञ्चित्त्वनुगतं यत्स्यात्सामान्यलक्षणम् ॥
मूलम्
अभिन्नदेशकालं यत् तत्स्वलक्षणमुच्यते । इति सर्वार्थसिद्धौ हि स्वलक्षणमनूदितम् ॥
टीका
स. सि.[1-10]
मूलम्
सौत्रान्तिकाः पुनरिहापोहसामान्यवादिनः । स वादश्शून्यनिष्ठेति न्यायरत्नाकरोदितम् ॥
टीका
न्या. र.[576]
मूलम्
वात्सीपुत्रास्तु शब्दादीन् पञ्च वैभाषिका विदुः । शब्दात्मानश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥
टीका
स. सि.[1-8]
मूलम्
निर्धर्मका निराधाराः रूपाद्यास्स्युः चतुर्विधाः । पदार्थास्ते चक्षुरादिप्रत्येकेन्द्रियगोचराः ॥
मूलम्
स्पर्शाद्येकद्वित्रिचतुःस्वभावाणुचतुष्कतः । पुञ्जः प्रपञ्चः सम्बन्धो नाम वस्तु न हीष्यते ॥
मूलम्
षट्केन युगपद्योगात्परमाणोष्षडंशता । तेषामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः ॥
टीका
भा. भा.[116]
मूलम्
प्रतिसंख्याऽप्रतीसंख्यानिरोधौ व्योम चेति यत् । बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तत् ॥
मूलम्
स निरन्वयनाशः स्याद्धर्मो धर्म्यपि वा पुनः । पूर्वसङ्घातभावो वा यद्भावे नानुवर्तते ॥
टीका
स. सि.[1-31]
मूलम्
उत्पत्तिश्च तथाभूता निरन्वयसमुद्भवा । तावुभौ सर्वभावानां नियताविति सौगताः ॥