मूलम्
अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥
टीका
स. सं.[2]
मूलम्
अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्य़ते । विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥
मूलम्
तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् । यदा तदा न सञ्चोद्या ग्राह्यग्राहकलक्षणा ॥
मूलम्
अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति । उपलम्भोपलम्भेन व्यवहारोऽखिलो मतः ॥
मूलम्
अन्यथा परकीयोपलम्भेनापि पुमानयम् । चेष्टेत तस्मात् स्वस्यैव स्वयमेवोपलभ्यते ॥
मूलम्
सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवाद्वये ॥
मूलम्
तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम् । तत्तु प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ॥
मूलम्
सवासनालयज्ञानानुवृत्तिः बन्ध इष्यते । विशुद्धालयविज्ञानसन्ततिर्मोक्ष ईरितः ॥