मूलम्
न सन्नासन्न सदसन्न चाप्यनुभयात्मकम् । चतुष्कोटिविनिर्मुक्तं तत्त्वं माध्यमिका विदुः ॥
टीका
स. सि.[4-18]
मूलम्
इदं वस्तुबलायातं यद्वदन्ति विपश्चितः । यथायथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथातथा ॥
मूलम्
रजतं न मया दृष्टमित्येवमुपलम्भनम् । निषेधविषयं स्वप्ने जागरे चानुभूयते ॥
टीका
स. सं.[2 द,]
मूलम्
द्रष्टृदर्शनसंसर्गाध्यासाधिष्ठानलक्षणे । समूहे कस्य वाऽसत्त्वं कस्य सत्त्वं विविच्यते ॥
मूलम्
अविशेषेण सर्वस्य निषेधोऽत्र विनिश्चितः । न चार्धजरतीयं चोचितं प्रेक्षावतां यथा ॥
मूलम्
न ह्येकभागः कुक्कुट्याः पाकाय प्रविभज्यताम् । प्रसवायापरो भागः कल्प्यतामिति कल्पते ॥
मूलम्
बुद्ध्या विविच्यमानायां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः ॥
मूलम्
यः प्रतीत्यसमुत्पादः शून्यतां तां प्रचक्षते । सा प्रज्ञप्तिरुपादाय प्रतिपत्सैव मध्यमा ॥
टीका
मा. वृ.[184]
मूलम्
पूर्वोपलम्भोपशमः प्रपञ्चोपशमश्शिवः । न क्वचित्कस्यचित्कश्चित् धर्मो बुद्धेन देशितः ॥
मूलम्
यो हेतुप्रत्ययापेक्षो भावोत्पादश्च कीर्त्यते । स प्रतीत्यसमुत्पादः नेश्वरान्न च कालतः ॥
मूलम्
नाणुभ्यो न स्वभावाच्च न वा प्रकृतितोऽपि च । अहेतोरेकहेतोर्वा विषमाद्वा न सम्भवः ॥
मूलम्
अप्रतीत्यास्तिता नास्ति कदाचित्कस्यचित्क्वचित् । न कदाचित्क्वचित्कश्चित् विद्यते तेन शाश्वतः ॥
मूलम्
भावानां निस्स्वभावानां न सत्ता विद्यते यतः । सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥
मूलम्
फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः । कथमस्वंमयेभ्यो यत् तत्प्रत्ययमयं कथम् ॥
मूलम्
पटः कारणतस्सिद्धः सिद्धं कारणमन्यतः । सिद्धिर्यस्य स्वतो नास्ति तदसज्जनयेत्कथम् ॥
मूलम्
अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम् । अथोत्पन्नो जनयति जातः किं जन्यते पुनः ॥
मूलम्
यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति । दुःखं समुदयं चैव निरोधं मार्गमेव च ॥
टीका
मा .वृ.[190]
मूलम्
प्रपञ्चोपशमायैव शून्यता सोपदिश्यते । तस्मात् प्रपञ्चोपशमः शून्यतायां प्रयोजनम् ॥
मूलम्
शून्यत्वं नास्तितारूपं भवांस्तु परिकल्पयन् । प्रपञ्चं वर्धयन्नेव न च वेत्ति प्रयोजनम् ॥
मूलम्
अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम् । निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥
मूलम्
प्रपञ्चविनिवृत्त्येकस्वभावा या च शून्यता । तस्यां तु नास्तितादृष्टिरमलायां न युज्यते ॥
मूलम्
यं चार्थं शून्यताशब्दस्समुपादाय वर्तते । स प्रतीत्यसमुत्पादः मध्यमा प्रतिपत्तु सा ॥
मूलम्
आसीदसद्वेदमग्रे ततो वै सदजायत । इति छान्दोग्योपनिषद्ब्राह्मणं श्रूयते सदा ॥
मूलम्
इदं चापिहितं तुच्छेनेति ब्राह्मणदर्शनम् । यच्च तित्तिरिशखायां तदप्यत्र समञ्जसम् ॥
मूलम्
आसीदिदं तमोभूतमित्याद्याः श्रुतयोऽपि च । स्मृतयश्चात्र सिद्धान्ते कटाक्षान् पातयन्ति हि ॥
मूलम्
एवं माध्यमिकैकान्तः स माध्यमिकपूर्वके । वृत्तिग्रन्थे च सव्याख्ये पर्यष्कारीति निर्णयः ॥