मूलम्
सर्वे स्वयंप्रकाशं तं ज्ञानमात्मानमभ्यधुः । स्वयंप्रकाशहीनस्य बाह्यस्योपासनं मतम् ॥
मूलम्
ज्ञानान्तरेणानुभवोऽनिष्टः तत्रापि च स्मृतेः । विषयान्तरसञ्चारः तथा न स्यात्स चेष्यते ॥
टीका
न्या. र.[321]
मूलम्
नान्योऽनुभाव्यो बुद्ध्याऽस्ति तस्या नानुभवोऽपरः । ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥
टीका
न्या. र.[274]