मूलम्
यद्यपि क्षणिका भावाः कार्यकारणलक्षणाः । तथाप्यविद्याशक्त्यैव तत्सर्वमुपपद्यते ॥
टीका
श्रुत.[2-2-18]
मूलम्
सैषाऽविद्या स्थायिजातिसुखवस्तुत्वबुद्धयः । विशेषे क्षणिके दुःखे शून्येऽप्यर्थे स्वभावतः ॥
मूलम्
भवन्ति रागद्वेषाद्याः ताभिस्संस्कारलक्षणाः । ते सूक्ष्मं चित्तसन्तानं मातृकुक्षिं नयन्ति तम् ॥
मूलम्
स नीयते निराधारश्चापि देशान्तरं स्वयम् । ज्वालाबुद्बुदवद्वृत्तिरन्तरालेऽस्य सम्मता ॥
मूलम्
प्रतिक्षणं जायते यो दीपसन्तानवत्सदा । स ग्राहकाभिमानेनारूढ आत्मेति कीर्त्यते ॥
मूलम्
गर्भं गतस्ततस्सोऽयं विज्ञानत्वं समश्नुते । चित्ताभिज्वलनं नाम, संसर्गो विषयैरसौ ॥
मूलम्
उत्तरोत्तरविज्ञानं स्थूलं चित्तमितीर्यते । सह तेनोत्पत्तिनाशभाजश्चैता उदाहृताः ॥
मूलम्
स्पर्शश्च वेदना संज्ञा चेतना च वितर्कणा । विचारः प्रीतिरैकाग्र्यं श्रद्धा वीर्यं स्मृतिस्तथा ॥
मूलम्
प्रज्ञादयश्च धर्मा ये कुशलाकुशलात्मकाः । त एते चित्तचैत्तास्स्युः ये नामाख्या इतीरिताः ॥
मूलम्
ततः पृथिव्यादिरूपिद्रव्यं तत्पुञ्जलक्षणम् । ततस्त्विन्द्रियषट्कं स्यात् षडायतनसंज्ञितम् ॥
मूलम्
ततः स्पर्शाभिधः कायः ततः स्युः वेदना स्पृहा । उपादानं भवो जातिः जरा मरणमेव च ॥
मूलम्
शोकश्च परिवेदश्च दुःखं दौर्मनसं तथा । मदमानादयश्चोपक्लेशाः प्रादुर्भवन्त्यपि ॥
मूलम्
स्पृहा वाक्कायचेष्टा स्यात् धर्माधर्मौ भवो मतः । शुभाशुभा वासना सा चित्तसन्तानवर्तिनी ॥
मूलम्
तस्मादेतैर्मता चित्तवासना कर्मशब्दिता । स्कन्धप्रादुर्भवो जातिः अविद्यादिस्ततः पुनः ॥
मूलम्
अनादि चक्रमेतत्स्यात् सन्ततं परिवर्तते । विच्छेदस्तस्य कर्तव्यः कुशलैरिह विद्यया ॥
मूलम्
प्राक्प्रतीत्यसमुत्पादे स्कन्धोत्पत्तिर्निरूपिता । प्रत्ययोत्पत्तिरपि च सैषा सौगतपद्धतिः ॥
मूलम्
सर्वं विवर्तं शून्यस्य मध्मागमसम्मतम् । ज्ञानस्यैवायमाकारः योगाचारमतेऽखिलम् ॥
मूलम्
सौत्रान्तिकैरनुमितं बाह्यं क्षणिकमिष्यते । वैभाषिकमते बाह्यं प्रत्यक्षं क्षणभङ्गुरम् ॥