47 आभ्यन्तरः

मूलम्

एवमाध्यात्मिकेऽप्यूह्यः यस्स्याद्धेतुनिबन्धनः । अविद्यया हि संस्काराः रागद्वेषादिलक्षणाः ॥

मूलम्

जायते तैर्हि विज्ञानं नामरूपं ततो भवेत् । स्यात् षडायतनं तस्मात् स्पर्शस्तस्माद्भवेदपि ॥

मूलम्

ततश्च वेदनातृष्णाभवजातिजरादयः । स्पष्टा रागदयस्तेभ्यः चित्ताभिज्वलनात्मकम् ॥

मूलम्

विज्ञानं तच्च गर्भस्थे चित्ते विषयसंजनम् । चित्तचैत्तात्मकं नामरूपं, आयतनं पुनः ॥

मूलम्

षडिन्द्रियाणि देहस्तु स्पर्शशब्देन कीर्त्यते । स्पष्टे हि वेदनातृष्णे धर्मोऽधर्मो भवो मतः ॥

मूलम्

स्कन्धप्रादुर्भवो जातिः प्रसिद्धा हि जरादयः । तथाऽत्रैव प्रत्ययोपनिबन्धोऽप्यवगम्यताम् ॥

मूलम्

क्षित्यप्तेजोवायुनभोविज्ञानसमवायतः । कायस्य तत्र काठिन्यं पृथिवीधातुलक्षणम् ॥

मूलम्

अब्धातुस्तं स्नेहयति तेजोधातुः तनुस्थितम् । पीताशितं पाचयति वायुः श्वासयति त्वमुम् ॥

मूलम्

आकाशोऽन्तस्सुषिरकृत् विज्ञानं पुनरारभेत् । नामरूपाङ्कुरं तेन धातवस्सकला इमे ॥

मूलम्

उत्पादयन्ति सकलं कायं नात्रापि चेतनः । सोऽयं विज्ञानधातुर्यत्सकार्यं सास्रवं मनः ॥

मूलम्

आलम्बनं चाधिपतिः समनन्तर एव च । सहकारीति चत्वारः प्रत्ययाः ज्ञानहेतवः ॥

मूलम्

प्रत्ययाश्चतुरस्त्वेतान् प्रत्येत्योत्पत्तियोगतः । शब्दाद्याः बाह्यविषयाः सुखाद्या आन्तरा मताः ॥

मूलम्

तत्र नीलालम्बनतः चित्तं स्यान्नीललक्षणम् । चक्षुराद्याधिपत्येन प्रतिरूपव्यवस्थितिः ॥

मूलम्

अनन्तरप्रत्ययेन बोधरूपत्वमश्नुते । आलोकादिकसाहाय्यादन्धकारादिसंक्षयः ॥

मूलम्

अर्थसत्ताविवादेऽपि प्रक्रियेयं समा मता । चतुर्णामपि वै मन्दमध्यमोत्तमयायिनाम् ॥

मूलम्

यस्मिन् सति समुत्पादो यस्य तत्तस्य कारणम् । इत्याहुस्सौगताः यस्मिन् सत्येवेतीतरे विदुः ॥

मूलम्

कारणं द्विविधं हेतुः प्रत्ययश्चेति निश्चितम् । प्रधानकारणं हेतुः प्रत्ययास्सहकारिणः ॥

मूलम्

तृतीयमिति यत्प्राहुर्निमित्तं न्यायवादिनः । तद्बुद्धिमदधिष्ठानं तदेवैतैर्निषिध्यते ॥