46 बाह्यः पदार्थः

मूलम्

द्विप्रतीत्यसमुत्पादे द्विधस्समुदयो मतः । बीजादङ्कुरपत्रादिफलपर्यन्तसन्ततौ ॥

मूलम्

नास्ति कस्यापि चैतन्यं नान्यो वाऽत्राधितिष्ठति । कार्यकारणभावस्य नियमो न न दृश्यते ॥

मूलम्

एष प्रतीत्योत्पादे स्याद्बाह्ये हेतुनिबन्धनः । अत्रैवायं प्रत्ययोपनिबन्धोऽप्यवगम्यताम् ॥

मूलम्

अङ्कुरो जायते बीजात् षड्धातुसमवायतः । ऋतुश्च पञ्च भूतानि षड्धातव इति स्मृताः ॥

मूलम्

संगृह्णाति क्षितिर्बीजं अङ्कुरः कठिनस्ततः । जलधातुः स्नेहयति तेजो बीजं पचेदपि ॥

मूलम्

वायुधातुर्निर्हरति निर्गच्छति ततोऽङ्कुरः । आकाशधातुर्बीजस्य त्वनावरणकृत्यकृत् ॥

मूलम्

ऋतुधातोः परीणामः प्रसिद्धोऽङ्कुरबीजयोः । नातिरिक्तश्चेतनोऽत्र यः स्यात्कारकचक्रगः ॥