मूलम्
द्विधस्समुदयश्च स्यात् आद्यो हेतुनिबन्धनः । अनन्तरः प्रत्ययोपनिबन्धन इतीरितः ॥
टीका
भामती.[2-2-17]
मूलम्
यदिदं प्रत्ययफलमिति संक्षिप्तसूत्रणम् । तत्प्रतीत्यसमुत्पादलक्षणं बुद्धदेशितम् ॥
मूलम्
स प्रतीत्यसमुत्पादः बाह्यश्चाभ्यन्तरो द्विधः । भूतभौतिकमाद्यं स्यात् चित्तचैत्तमनन्तरम् ॥
मूलम्
भूतं प्रसिद्धं देहादिर्विषयो भौतिको मतः । पञ्चस्कन्धी चित्तचैत्तं तद्विभागोऽवगम्यताम् ॥
मूलम्
विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च । प्रवृत्त्यालयविज्ञानधारा विज्ञानमुच्यते ॥
मूलम्
चित्तावस्था वेदना स्यात् सुखदुःखादिलक्षणा । शब्दसंसर्गयोग्यार्थभासः संज्ञेति कीर्त्यते ॥
मूलम्
रागद्वेषादिसन्तानः संस्कारस्कन्धसंज्ञितः । रूपस्कन्धः सविषयाणीन्द्रियाण्युच्यते बुधैः ॥