मूलम्
दुःखं समुदयं चैव निरोधो मार्ग एव च । आर्यसत्याख्यया बौद्धं तत्त्वमस्ति चतुर्विधम् ॥
मूलम्
दुःखं प्रसिद्धं तन्मूलमपि तच्छब्दशब्दितम् । दुःखहेतुस्समुदयः यः प्रत्ययपदाभिधः ॥
मूलम्
निरोधो मुक्तिरेव स्यात् शुद्धज्ञानमहोदयः । मार्गो भावनया तत्त्वज्ञानं तद्धेतुरुच्यते ॥
मूलम्
यद्भास्करेण भाष्ये स्वे त्वार्यसत्यं विभागशः । निरूपितं तदप्यत्र विशदीक्रियते यथा ॥
टीका
भा. भा.[121]
मूलम्
आद्यं समुदयाख्यं स्यात् सर्वमुत्पत्तिमत् स्थितम् । इति यन्निर्णयज्ञानं तदेव स्यात् स्वलक्षणम् ॥
मूलम्
क्षणिकं सर्वमिति यत् तन्निरोधाख्यमुच्यते । सर्वं दुःखमिति ज्ञानं दुःखसत्यं विनिश्चितम् ॥
मूलम्
सर्वं शून्यमिति ज्ञानं मार्गसत्यं निरात्मकम् । इति भावयतो रागहानौ नाशो ह्यहेतुकः ॥
मूलम्
प्रायश्शास्त्रं सर्वमपि चतुर्धैव विभज्यते । रोगस्तद्धेतुरारोग्यं तद्धेतुश्चेति वैद्यके ॥
मूलम्
भूतं च भौतिकं चैव चित्तं चैत्तं च कृत्स्नशः । उत्पाद्यं क्षणिकं दुःखं निस्स्वभावं निरूपितम् ॥