मूलम्
चतुःप्रस्थानका बौद्धाः ख्याता वैभाषिकादयः । अर्थो ज्ञानान्वितो वैभाषिकेण बहुमन्यते ॥
मूलम्
सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिर्मतः । आकारसहिता बुद्धिर्योगाचारस्य सम्मता ॥
मूलम्
केवलां संविदं स्वस्थां मन्यन्ते मध्यमागमाः । प्रत्यक्षमनुमानं च प्रमाणद्वितयं विदुः ॥