42 माध्यमिकः

मूलम्

रागादिज्ञानसन्तानवासनोच्छेदसम्भवा । चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥

मूलम्

माहायानिकनाम्ना च विश्रुता ये बुधोत्तमाः । ते माध्यमिकनाम्ना च प्रथिताश्शून्यवादिनः ॥

मूलम्

देशना लोकनाथानां सत्त्वाशयवशानुगाः । भिद्यन्ते बहुधा लोके उपायैर्बहुधा किल ॥

टीका

स. सं.[2 द.]

मूलम्

गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणाः । भिन्ना हि देशना भिन्ना शून्यताऽद्वयलक्षणा ॥

मूलम्

द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोके संवृतिसत्यं च सत्यं च परमार्थतः ॥

टीका

न्या. र.[218]