39 नैरात्म्यम्

मूलम्

आत्मग्रहो महामोहः प्रथमस्तन्निवृत्तितः । मम किं नाहमेवेति विरंस्यति मम ग्रहः ॥

टीका

प्र. त.[145]

मूलम्

तस्मादादावहंकारममकारप्रहाणतः । नैरात्म्यदर्शनं सिद्धं निर्वाणद्वारमुत्तमम् ॥

टीका

स. सं.[2 द.]

मूलम्

आत्मा यद्यप्रतीत्य स्यात् क्लेशानां नैव संक्षयः । अतो नैरात्म्यसिद्धान्तः बौद्धानामिति निर्णयः ॥