मूलम्
स्थिरदेहविदोऽप्येके जीवन्मुक्तिं समाश्रिताः । ते रसेश्वरसिद्धान्तनिष्ठाः तद्धृदयं त्विदम् ॥
टीका
स. सं.[9 द.]
मूलम्
आकाशस्य स्थितिर्यावद्यावच्च जगतः स्थितिः । तावन्मम स्थितिर्भूयाज्जगत्पापानि निघ्नतः ॥
टीका
भा. भा.[121]
मूलम्
इति बुद्धेन कथितमिति भास्करभाषितम् । तत् स्थेयं पुरुषेणेह जगतामुपकुर्वता ॥
मूलम्
बाह्यं केवलमेतत्स्यात् बौद्धं केवलमान्तरम् । सिद्धान्तस्यास्य संक्षेपः तत्तदुक्त्या प्रकाश्यते ॥