मूलम्
मज्ज्नामस्थ्नामथ प्लीह्नां यकृतां शकृतामपि । पूर्णाः स्नायुसिरास्यूताः प्रजाश्चर्मप्रसेविकाः ॥
मूलम्
मांसासृक्पूयविण्मूत्रस्नायुमज्जास्थिसंहतिः । देहः पटलपर्यन्तबिन्दुवत् क्षणभङ्गुरः ॥
मूलम्
सर्वाशुचिनिधानस्य कृतघ्नस्य विनाशिनः । शरीरकस्यापि कृते नराः पापानि कुर्वते ॥
मूलम्
यदि नामास्य देहस्य यदन्तस्तद्बहिर्भवेत् । दण्डमादाय लोकोऽयं शुनः काकांश्च वारयेत् ॥
मूलम्
दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा । यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥
मूलम्
अकीर्तिर्यस्य कीर्त्येत लोके भूतस्य कस्यचित् । पतत्येवाधमान् लोकान् यावच्छब्दस्स कीर्त्यते ॥
मूलम्
नरः पतितकायोऽपि यशःकायेन जीवति । श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ॥
मूलम्
परोपकारः पुण्याय पापाय परपीडनम् । इत्येव लक्षणं पुण्यपापयोस्सर्वसम्मतम् ॥
मूलम्
परश्शतैरेवमादिवचोभिरिह जीवता । आस्था निवर्तनीयाऽऽदौ आत्मन्याशुविनाशिनि ॥
मूलम्
जगतामुपकाराय वर्तितव्यं कृतात्मना । इदमेव हि चार्वाकदर्शनं रागभञ्जकम् ॥
मूलम्
देहपर्यन्तात्मवादि इति तत्त्वविदो विदुः ।