मूलम्
प्रकृतिं तद्विकारान्वा देहान्तान् ये तु मन्वते । आत्मानमिति ते ख्याताः तौष्टिका इति कापिलैः ॥
टीका
सा. का.[17]
मूलम्
पञ्चेन्द्रियविरक्तास्ते प्रकृत्यादौ लयं गताः । भवामेति च तानेव त्वात्मेत्येवमुपासते ॥
मूलम्
तत्त्वाभ्यासान्नास्मि न मे किञ्चिदित्येव केवलम् । ज्ञानमुत्पद्यते पश्चात् स्वयं सह विनश्यति ॥
मूलम्
विज्ञानघन एवैभ्यो भूतेभ्यश्च समुत्थितः । तानेवानुविनश्येदित्येव ब्राह्मणदर्शनम् ॥
टीका
बृ. उ.[6-5]
मूलम्
येयं प्रेत इति श्रौते वचनं नायमित्यपि । अनादिर्विचिकित्सेति सिद्धान्तः गीष्पतेरसौ ॥
मूलम्
विवृतं बहुधा सत्त्वं चैतन्यं नास्ति किञ्चन । इति श्रुतिः वाक्यपदव्याख्यायां समुदाहृता ॥
टीका
वा. प.[1-8]